(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.155. अध्यायः 155
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन स्वसेनानां अग्र्यमध्यमपाश्चात्यभेदेन त्रेधा विभजनम् ॥ 1 ॥ तासां सांग्रामिकोपकरणसमृद्धिवर्णनम् ॥ 2 ॥ दुर्योधनेन कृपादीनामेकादशानां पृथक्पृथगक्षौहिण्यधिपतित्वेऽभिषेचनम् ॥ 3 ॥


Mahabharata - Udyoga Parva - Chapter Text

5-155-0(37094)
वैशम्पायन उवाच। 5-155-0x(3841)
व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः।
व्यभजत्तान्यनिकानि दश चैकं च भारत ॥ 5-155-1(37095)
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च।
सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः ॥ 5-155-2(37096)
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः।
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टयः । 5-155-3(37097)
सध्वजाः सपताकाश्च सशरासनतोमराः ।
रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः ॥ 5-155-4(37098)
सकचग्रहविक्षेपाः सतैलगुडवालुकाः ।
साशीविषघटाः सर्वे ससर्जरसपांसवः ॥ 5-155-5(37099)
सघण्टफलकाः सर्वे सायोगुडजलोपलाः ॥
सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः ॥ 5-155-6(37100)
सकाण्डदण्डकाः सर्वे ससीरविषतोमराः ।
सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः ॥ 5-155-7(37101)
सकीलकवचाः सर्वे वाशीवृक्षादनान्विताः।
व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते ॥ 5-155-8(37102)
सहर्ष्टयः सश्रृङ्गाश्च सप्रासविविधायुधाः ।
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ॥ 5-155-9(37103)
रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः ।
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः ॥ 5-155-10(37104)
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः ।
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः ॥ 5-155-11(37105)
बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः।
बद्धाभरणनिर्यूहा बद्धचर्मासिपट्टिशाः ॥ 5-155-12(37106)
चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः ।
सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः ॥ 5-155-13(37107)
धुर्ययोर्हकययोरेकस्तथान्यौ पर्ष्णिसारथी ।
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ॥ 5-155-14(37108)
नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः ।
आसन्रथसहस्राणि हेममालीनि सर्वशः ॥ 5-155-15(37109)
यथा रथास्तथा नागा बद्धकक्षाः स्वलङ्कृताः ।
बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः ॥ 5-155-16(37110)
द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ ।
द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधृत् ॥ 5-155-17(37111)
गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः।
तद्बभूव बलं राजन्कौरव्यस्य महात्मनः ॥ 5-155-18(37112)
आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कृतैः ।
सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः ॥ 5-155-19(37113)
असङ्ग्राहाः सुसंपन्ना हेमभाण्डपरिच्छदाः।
अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः ॥ 5-155-20(37114)
नानारूपविकाराश्च नानाकवचशस्त्रिणः ।
पदातिनो नरास्तत्र बभूवुर्हेममालिनः ॥ 5-155-21(37115)
रथस्यासन्दश गजा गजस्य दश वाजिनः ।
नरा दश हयस्यासन्पादरक्षाः समन्ततः ॥ 5-155-22(37116)
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः।
हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः ॥ 5-155-23(37117)
सेना पञ्चशतं नागा रथास्तावन्त एव च।
दशसेना च पृतना पृतना दश वाहिनी ॥ 5-155-24(37118)
सेना च वाहिनी चैव पृतना ध्वजिनी चमूः ।
अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी ॥ 5-155-25(37119)
एवं व्यूढान्यनीकानि कौरवेयेण धीमता।
अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह ॥ 5-155-26(37120)
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् ।
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ॥ 5-155-27(37121)
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते।
सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम् ॥ 5-155-28(37122)
त्रयो गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् ।
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ॥ 5-155-29(37123)
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान्।
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा । 5-155-30(37124)
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् ।
विधिवत्पूर्वमानीय पार्थिवानभ्यषेचयत् ॥ 5-155-31(37125)
कृपं द्रोणं च शल्यं च सैन्धवं च जयद्रथम् ।
सुदक्षिणं च काम्भोजं कृतवर्माणमेव च ॥ 5-155-32(37126)
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च।
शकुनिं सौबलं चैव बाह्लीकं च महाबलम् ॥ 5-155-33(37127)
दिवसे दिवसे तेषां प्रतिवेलं च भारत।
चक्रे स विविधाः पूजाः प्रत्यक्षं च पुनः पुनः ॥ 5-155-34(37128)
तथा विनियताः सर्वे ये च तेषां पदानुगाः।
बभूवुः सैनिका राज्ञां प्रियं राज्ञश्चिकीर्षवः ॥ ॥ 5-155-35(37129)

इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-155-1 व्युष्टायां व्यतीतायाम् ॥ 5-155-2 सारं पुरोगामि । मध्यं मध्यमम्। फल्गु पाश्चात्त्यम् ॥ 5-155-3 अनुकर्षः युद्धविमर्देयस्यकस्यचिद्रथावयवस्य नष्टस्य प्रतिसमाधानार्थं यद्रथस्याधोदारुबध्यते तत्। अनुकर्षो रथाधःस्थदारुणीति भेदिनी । तूणीरो रथवाह्यो बाणकोशः । महान् निषङ्ग इति यावत्। उपासङ्गाः हयगजवाह्यास्तूणाः । निषङ्गः पत्तिवाह्यः स ेव ॥ 5-155-5 कचग्रहविक्षेपः कचेषु गृहीत्वा येन शत्रुर्विक्षिप्यते तादृशः। तैलादयः प्रपप्ताः शत्रूणामुपरि क्षिप्यन्ते । साशीविषघटाः ससर्पाः कुम्भाः । सर्जरसो रालद्रव्यमग्र्न्युद्दीपकम् ॥ 5-155-6 सघण्टानि फलकानि शस्त्राग्राणि येषां ते सघण्टफलकाः । अयंसि खङ्गपट्टिशच्चुरिकादीनि। गुडजलं तप्तम्। उपला यन्त्रक्षेप्या गोलाः। शालते कत्थते शब्दं करोतीति शालः स चासौ भिन्दिपालो गोफलकः। मधूच्छिष्टं मयनं तदपि द्रवीकृत्य गुडजलवत्प्रक्षेप्यम्। मुद्गरः मुशलतुत्यो दण्डः ॥ 5-155-7 काण्डं बाणफलकं तद्युक्तो दण्डः काण्डदण्डः इतियावत्। सीरं लाङ्गलम् । विषं प्रसिद्धं तेन युक्तास्तोमरा विषतोमराः। शूर्पाणि तप्तगुडादिप्रक्षेपार्थानि। पिटकास्तदाश्रया मञ्जूषाः अस्त्ररोधनार्था वा। दात्रां परशुप्रभृति । अङ्कुशतोमराः बदरीकण्टकतुल्यलोहकण्टकोपेतास्तोमराः ॥ 5-155-8 कीलकवचवान् हि परेण मुष्टियुद्धे जेतुमशक्यः। वाशी काष्ठप्रच्छन्नं शस्त्रम्। वृक्षादनाः लोहकण्टककीलादीन्युपकरणानि। व्याघ्रचर्मणा द्वीपी चित्रव्याघ्रस्तच्चर्मणा च परिवृता रथा एव ॥ 5-155-9 तैलक्षौमानि तैलाक्तवस्त्रविशेषा येषां भस्म प्रहारस्थले दीयते । सर्पिश्च पुरातनं तदर्थमेव ॥ 5-155-10 चित्रानीकाः चित्राणि सैन्यानि ॥ 5-155-11 विनिवेशेता येषु रथेष्विति शेषः ॥ 5-155-12 बद्धानि अरिष्टानि अशुभहराणि यन्त्रौषधादीनि येषु ते बद्धारिष्टाः। बद्धकक्षाः बद्धाः कक्षाः स्पर्धापदानि तुरगादिशिरसि घण्टामालामौक्तिकगुच्छादीनि। बद्धानि बिरुदानि येषु। बद्धानि आभरणानि क्षुद्रघण्टिकादीनि निर्यूहाः शिखराणि च येषु ॥ 5-155-14 चतुर्युज इत्येतद्व्याचष्टे धुर्ययोरिति। धुर्ययोः धूःसन्निहितयोः। पार्ष्णिस्पारथी चक्ररक्षौ ॥ 5-155-17 पिनाकः त्रिशूलम् ॥ 5-155-20 संग्राहः हेषणपूर्वकमग्रादाभ्यामुत्प्लवनं तद्रहिताः । यतः सुसंपन्नाः सम्यकशिक्षिताः ॥ 5-155-22 एकस्य रथस्य यथोक्तविभागेन दश गजाः शतं अश्वाः सहस्रं पदातयश्च परिवार इत्यर्थः ॥ 5-155-23 पक्षान्तरमाह रथस्येति। एकस्य रथस्य पञ्चाशद्रदा पञ्चसहस्रं अश्वाः पञ्चत्रिंशत्सहस्रं पदातयः परिवार इत्यर्थः ॥ 5-155-24 पृतनायां तु पञ्चसहस्रं नागास्तावन्तो रथाः पञ्चविंशतिसहस्रं नराः पञ्चदशसहस्रं अश्वाः । वाहिन्यां पञ्चाशत्सहस्रं नागास्तावन्तो रथाः सार्धलक्षद्वयं नराः। सार्धलक्षं अश्वा इति ज्ञेयम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.